द्रविणोदा द्रविणो ग्रावहस्तासो अध्वरे
यज्ञेषु देवमीळते॥७॥
द्रविणःऽदाः। द्रविणसः। ग्रावहस्तासःअध्वरे। यज्ञेषु। देवम्। ईळते॥७॥
पदार्थ:-(द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वाद्रविणमिति बलनामसु पठितम्। (निघं०२.९) द्रविणोदा इति पदनामसु पठितम्। (निघं०५.२) द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्युसुन्प्रत्ययःतददातीति निरुक्त्या पदनामसु पठितत्वाज्ज्ञानस्वरूपत्वादीश्वरो ज्ञानक्रियाहेतुत्वादग्न्यादयश्च गृह्यन्ते। दूयन्ते प्राप्यन्ते यानि तानि द्रविणानि। दुदक्षिभ्यामिनन्। (उणा०२.४९) अनेन 'दु'धातोरिनन् प्रत्ययः। (द्रविणसः) यज्ञकर्त्तारः द्रविणसम्पादकाः। (ग्रावहस्तासः) ग्रावा स्तुतिसमूहो ग्रहणं हननं वा ग्रावाणः पाषाणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा। (निरु०९.८) (अध्वरे) अनुष्टातव्ये क्रियासाध्ये यज्ञे (यज्ञेषु) अग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यामयेषु वा (देवम्) दिव्यगुणवन्तम् (ईळते) स्तुवन्ति अध्येषन्ति वा।
एतद्विषयान् मन्त्रान् यास्कमुनिरेवं व्याख्यातवान्-द्रविणोदाः कस्मात् ? धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति-द्रविणोदा द्रवि० द्रविणोदा यस्त्वं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति वा द्रविणसस्तस्मात् पिबत्विति वा। यज्ञेषु देवमीडते। याचन्ति स्तुवन्ति वर्धयन्ति पूज्यन्तीति वा। तत्को द्रविणोदा? इन्द्र इति क्रोष्टुकिः, स बलधनयोर्दातृतमस्तस्य च सर्वा बलकृतिरोजसो जातमुतमन्य एनमिति चाहाऽथाप्यग्नि द्राविणोदसमाहैष पुनरेतस्माज्जायते। यो अश्मनोरन्तरग्नि जजानेत्यपि निगमो भवत्यथाप्यतुयाजेषु द्राविणोदसा: प्रवादा भवन्ति तेषां पुन: पात्रस्येन्द्रपानमिति भवत्यथाप्येनं सोमपानेन स्तोत्यथाप्याह।
द्रविणोदाः पिबतु द्राविणोदस इत्ययमेवाग्निविणोदा इति शाकपूणिराग्नेयेष्वेव हि सूक्तेषु द्राविणोदसा: प्रवादा भवन्ति। देवा अग्निं धारयन् द्रविणोदामित्यपि निगमो भवति यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वयं विद्यते यथो एतदोजसो जातमुतमन्य एनमिति चाहेत्ययमप्यग्निरोजसा बलेन मध्यमानो जायते तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुं यथो एतदग्नि द्राविणोदसमाहेत्वृत्विजोऽत्र द्रविणोदस उच्यन्ते हविषो दातारस्ते चैनं जनयन्ति। ऋषीणां पुत्रो अधिराज एष इत्यपि निगमो भवति। यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति भक्तिमात्रं तद्भवति। यथा वायव्यानीति। सर्वेषां सोमपात्राणां यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते। सोमं पिब मन्दसानो गणश्रिभिरित्यपि निगमो भवति। यथो एतद्रविणोदाः पिबत् द्रविणोदस इत्यस्यैव तद्भवति॥ निरु०८.१-२) अनेन निरुक्तेनैवमेव द्रविणोदश्शब्दस्य यथायोग्यं सर्वत्रार्थान्वयो विज्ञेयः । सायणाचार्येण द्रविणोदा इति पदं क्विबन्तं साधितं तदप्यत्राशुद्धमेवास्ति। कुतः, निरुक्तकारस्य द्रविणोदसामित्यादिव्याख्यानविरोधात्। स्वरस्तु गतिकारकोपदात् इति सिद्ध एव॥७॥
अन्वयः-यो द्रविणोदा देवः परमेश्वरो भौतिको वास्ति यं देवं ग्रावहस्तासो द्रविणस ऋत्विजोऽध्वरे यज्ञेष्वीळते पूजयन्त्यध्येष्य योजयन्ति वा तमुपास्योपयुज्य मनुष्याः एव सदा आनन्दिता भवन्ति॥७॥
भावार्थ:-अत्र श्लेषालङ्कारःसकलैर्मनुष्यैः सर्वेषु कर्मोपासनाज्ञानकाण्डसाध्येषु यज्ञेषु परमेश्वरः पूज्यः । होमशिल्पादिषु यज्ञेषु भौतिकोऽग्निः सुयोजनीयश्चेति॥७॥
पदार्थ:-(द्रविणोदाः) जो विद्या बल राज्य और धनादि पदार्थों का देने और दिव्य गुणवाला परमेश्वर तथा उत्तम धन आदि पदार्थ देने और दिव्यगुणवाला भौतिक अग्नि है, जिस (देवम्) देव को (ग्रावहस्तासः) स्तुति समूह ग्रहण वा हनन और पत्थर आदि यज्ञ सिद्ध करनेहारे शिल्पविद्या के पदार्थ हाथ में हैं, जिनके ऐसे जो (द्रविणसः) यज्ञ करने वा द्रव्यसम्पादक विद्वान हैं, वे (अध्वरे) अनुष्ठान करने योग्य क्रियास्साध्य हिंसा के अयोग्य और (यज्ञेषु) अग्निहोत्र आदि अश्वमेधपर्यन्त वा शिल्पविद्यामय यज्ञों में (ईळते) पूजन वा उसके गुणों की खोज करके संयुक्त करते हैं, वही मनुष्य सदा आनन्दयुक्त रहते हैं।॥७॥ ___
भावार्थ:-इस मन्त्र में श्लेषालङ्कार है। सब मनुष्यों को सब कर्म, उपासना तथा ज्ञानकाण्ड यज्ञों में परमेश्वर ही की पूजा तथा भौतिक अग्नि होम वा शिल्पादि कामों में अच्छी प्रकार संयुक्त करने योग्य है।॥७॥
स एव सर्वेषां पदार्थानां प्रदातेत्युपदिश्यते
उक्त अग्नि ही सब पदार्थों का देने वा उनका दिलानेवाला है, इस विषय का उपदेश अगले मन्त्र में किया है