इन्द्रौ यातोऽवसितस्य॒ राजा शर्मस्य च शृङ्गिो वज्रबाहुः।
सेढ राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव।। १५॥३८॥२॥
इन्द्रः। यातः। अव॑ऽसितस्य। राजा। शमस्या च। शृङ्गिणः। वज्रबाहुःसः। इत्। ऊम् इति। राजा क्षयत। चर्षणीनाम्अरान्। न। नेमिःपरि। ता। बभूव॥१५॥
पदार्थः-(इन्द्रः) सूर्यलोक इव सभासेनापती राज्यं प्राप्तः (यातः) गमनादिव्यवहारप्रापक: (अवसितस्य) निश्चितस्य चराचरस्य जगतः (राजा) यो राजते दीप्यते प्रकाशते सः (शमस्य) शाम्यन्ति येन तस्य शान्तियुक्तस्य मनुष्यस्य (च) समुच्चये (शृङ्गिणः) शृङ्गयुक्तस्य गवादेः पशुसमूहस्य (वज्रबाहुः) वज्रः शस्त्रसमूहो बाहौ यस्य सः (सः) (इत्) एव (उ) अप्यर्थे (राजा) न्यायप्रकाशक: सभाध्यक्षः (क्षयति) निवासयति गमयति वा (चर्षणीनाम्) मनुष्याणाम् (अरान्) चक्रावयवान् (इव) (नेमिः) रथाङ्गम् (परि) सर्वतोऽर्थे (ता) तानि यानि जगतो दुष्टानि कर्माणि पूर्वोक्ताल्लोकान् वा। अत्र शेश्छन्दसि बहुलम् इति शेर्लोप: । (बभूव) भवः । अत्र लिङर्थे लिट्॥१५॥
अन्वयः-सूर्य इव वज्रबाहुरिन्द्रो यातः सभापतिरवस्सितस्य शमस्य शृङ्गिणश्चर्षणीनां च मध्येऽरान्नेमिर्नेव ता तानि रजांसि परिक्षयति स चेदु उतापि सर्वेषां राजा बभूव भवतु॥१५॥
भावार्थ:-अत्रोपमालङ्कारः। अत्र पूर्वमन्त्रात् रजांसीति पदमनुवर्त्तते। राजा यथा रथचक्रमरान् धृत्वा चालयति यथायं सूर्य्यश्चराचरस्य शान्ताशान्तस्य जगतो मध्ये प्रकाशमान: सन् सल्लिोकान् धरन् स्वस्वकक्षासु चालयति न चैतस्माद्विना कस्यचित्संनिहितस्य मूर्त्तिमतो लोकस्य धारणकर्षणप्रकाशमेघवर्षणादीनि कर्माणि सम्भवितुमर्हन्ति तथा धर्मेण राज्यं पालयेत्।।१५॥
अत्रेन्द्रवृत्रयुद्धालङ्कारवर्णनेनास्य पूर्वसूक्तोक्ताग्निशब्दार्थेन सह सङ्गतिरस्तीति वेदितव्यम्॥
इति प्रथमस्य द्वितीयेऽष्टात्रिंशो वर्ग: ३८॥
प्रथममण्डले सप्तमेऽनुवाके द्वात्रिशं च सूक्तमध्यायश्च द्वितीय: समाप्तः॥२॥